मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५९, ऋक् ६

संहिता

ते अ॑ज्ये॒ष्ठा अक॑निष्ठास उ॒द्भिदोऽम॑ध्यमासो॒ मह॑सा॒ वि वा॑वृधुः ।
सु॒जा॒तासो॑ ज॒नुषा॒ पृश्नि॑मातरो दि॒वो मर्या॒ आ नो॒ अच्छा॑ जिगातन ॥

पदपाठः

ते । अ॒ज्ये॒ष्ठाः । अक॑निष्ठासः । उ॒त्ऽभिदः॑ । अम॑ध्यमासः । मह॑सा । वि । व॒वृ॒धुः॒ ।
सु॒ऽजा॒तासः॑ । ज॒नुषा॑ । पृश्नि॑ऽमातरः । दि॒वः । मर्याः॑ । आ । नः॒ । अच्छ॑ । जि॒गा॒त॒न॒ ॥

सायणभाष्यम्

तेमरुतः अज्येष्ठाः अकनिष्ठासः अकनिष्ठाः उद्भिदउद्भेदयितारः शत्रूणां अमध्यमासः अमध्यमाः सर्वप्रकारैःसमः महसा तेजसा विववृधुः विवर्धन्ते सुजातासः सुष्ठुसंभूताः जनुषा जन्मना पृश्निमातरः पृश्नेःपुत्राः मर्यामनुष्येभ्योहितायूयं दिवः सकाशात् नोस्मानच्छा- भिमुखं आजिगातन सर्वतःप्रशंसन साध्वनुष्ठितमिति उत्तरार्धःप्रत्यक्षकृताः यद्वा येसुजाताजनुषापृश्निमातरश्चतान् दिवआगतान् हेऋ- त्विजोमर्यायूयमाजिगातन आगच्छत अथवा तेनोच्छागच्छन्त्वस्मदभिमुखं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४