मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५९, ऋक् ७

संहिता

वयो॒ न ये श्रेणी॑ः प॒प्तुरोज॒सान्ता॑न्दि॒वो बृ॑ह॒तः सानु॑न॒स्परि॑ ।
अश्वा॑स एषामु॒भये॒ यथा॑ वि॒दुः प्र पर्व॑तस्य नभ॒नूँर॑चुच्यवुः ॥

पदपाठः

वयः॑ । न । ये । श्रेणीः॑ । प॒प्तुः । ओज॑सा । अन्ता॑न् । दि॒वः । बृ॒ह॒तः । सानु॑नः । परि॑ ।
अश्वा॑सः । ए॒षा॒म् । उ॒भये॑ । यथा॑ । वि॒दुः । प्र । पर्व॑तस्य । न॒भ॒नून् । अ॒चु॒च्य॒वुः॒ ॥

सायणभाष्यम्

येमरुतोवयोन पक्षिणइव श्रेणीः पंक्तयःसन्तः ओजसा बलेन दिवोन्तरिक्षस्यआदित्यस्यवा अन्तान् पर्यन्तान् बृहतोमहतः सानुनः स- मुन्नतस्याकाशवलयस्य परि परितः पप्तुः पतन्ति एषामश्वासःअश्वाः पर्वतस्य मेघस्य नभनून् नभतेः शब्दकर्मणोनभ्राट्इतिवत् नभनवः उदकानि प्राचुच्यवुः च्यावयन्ति उभयेदेवामनुष्याश्च यथाविदुर्जानन्ति तथामनुष्याणांज्ञानंप्रसिद्धं देवाश्चवृष्टौसत्यां आग्रयणादौ हविः- प्रदानेनजानन्ति देवानांवृष्टिसंपूर्तिपरज्ञानमाश्वलायनेनउक्तं यदावर्षस्यतृप्तः स्यादथाग्रयणेनयजेतेत्युपक्रम्यापिदेवाआहुस्तृप्तोनूनंवर्श- स्याग्रयणेनहियजतइति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४