मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५९, ऋक् ८

संहिता

मिमा॑तु॒ द्यौरदि॑तिर्वी॒तये॑ न॒ः सं दानु॑चित्रा उ॒षसो॑ यतन्ताम् ।
आचु॑च्यवुर्दि॒व्यं कोश॑मे॒त ऋषे॑ रु॒द्रस्य॑ म॒रुतो॑ गृणा॒नाः ॥

पदपाठः

मिमा॑तु । द्यौः । अदि॑तिः । वी॒तये॑ । नः॒ । सम् । दानु॑ऽचित्राः । उ॒षसः॑ । य॒त॒न्ता॒म् ।
आ । अ॒चु॒च्य॒वुः॒ । दि॒व्यम् । कोश॑म् । ए॒ते । ऋषे॑ । रु॒द्रस्य॑ । म॒रुतः॑ । गृ॒णा॒नाः ॥

सायणभाष्यम्

नोस्मदर्थं द्यौरंतरिक्षं मिमातुनिर्मिमातुवृष्टिं अस्मदनुकूलांकरोत्वित्यर्थः कीदृशी अदितिरदीना यद्वा द्यौर्मिमातु अदितिर्भूमिश्च मिमातु सुखं किमर्थं वीतये उत्पत्तये प्रजननायवा दानुचित्राः विचित्रप्रकाशादिदानाः उषसः संयतंतां हेऋषे त्वया गृणानाः स्तूयमाना- मरुतः रुद्रस्यपुत्राइत्यर्थः एते दिव्यंकोशं मेघमुदकमाचुच्यवुः आच्यावयन्ति द्विकर्मकोयं ॥ ८ ॥

ईळेअग्निंस्ववसमित्यष्टर्चंचतुर्थंसूक्तं श्यावाश्वस्यार्षं सप्तम्यष्टम्यौजगत्यौ शिष्टाःषट् त्रिष्टुभःमरुद्देवताकं अग्निमरुद्देवताकंवा अनुक्रान्तं- च-ईळेद्विजगत्यन्तमाग्नेयंचवेति । सूक्तविनियोगोलैंगिकः आद्याकारीर्यांसामिधेनीषुधाय्या सूत्रितंच-ईळेअग्निंस्व्वसंनमोभिरितिधाय्ये- इति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४