मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६०, ऋक् ५

संहिता

अ॒ज्ये॒ष्ठासो॒ अक॑निष्ठास ए॒ते सं भ्रात॑रो वावृधु॒ः सौभ॑गाय ।
युवा॑ पि॒ता स्वपा॑ रु॒द्र ए॑षां सु॒दुघा॒ पृश्नि॑ः सु॒दिना॑ म॒रुद्भ्य॑ः ॥

पदपाठः

अ॒ज्ये॒ष्ठासः॑ । अक॑निष्ठासः । ए॒ते । सम् । भ्रात॑रः । व॒वृ॒धुः॒ । सौभ॑गाय ।
युवा॑ । पि॒ता । स्वपा॑ । रु॒द्रः । ए॒षा॒म् । सु॒ऽदुघा॑ । पृश्निः॑ । सु॒ऽदिना॑ । म॒रुत्ऽभ्यः॑ ॥

सायणभाष्यम्

अज्येष्ठासः अकनिष्ठासः परस्परंज्येष्ठकनिष्ठभावरहिताः सहैवोत्पन्नाः समानबलाएतेमरुतः भ्रातरः परस्परंभ्रातृभूताःसन्तः सौभगाय सुभगत्वाय संववृधुर्वर्धन्ते युवा नित्यतरुणः स्वपाः शोभनकर्मैषांमरुतां रुद्रःपिता सुदुघा सुष्ठुदोग्ध्री पृश्निर्गोदेवता मातृभूता मरुद्भ्योमरु- दर्थं सुदिना शोभनदिनानि अकुरुतामितिशेषः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५