मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६१, ऋक् १

संहिता

के ष्ठा॑ नर॒ः श्रेष्ठ॑तमा॒ य एक॑एक आय॒य ।
प॒र॒मस्या॑ः परा॒वतः॑ ॥

पदपाठः

के । स्थ॒ । न॒रः॒ । श्रेष्ठ॑ऽतमाः । ये । एकः॑ऽएकः । आ॒ऽय॒य ।
प॒र॒मस्याः॑ । प॒रा॒ऽवतः॑ ॥

सायणभाष्यम्

हेनरोनेतारोमरुतः श्रेष्ठतमाः अत्यन्तंश्रेष्ठाः यूयं केष्ठ केस्थ केभवथ एवंस्वरूपानिश्चयात् संदिह्यब्रवीति येयूयं एकएकः प्रत्येकं आयय आगच्छथ कस्मादितिउच्यते परमस्याःपरावतः अत्यन्तदूरदेशात् अन्तरिक्षादित्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६