मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६१, ऋक् ३

संहिता

ज॒घने॒ चोद॑ एषां॒ वि स॒क्थानि॒ नरो॑ यमुः ।
पु॒त्र॒कृ॒थे न जन॑यः ॥

पदपाठः

ज॒घने॑ । चोदः॑ । ए॒षा॒म् । वि । स॒क्थानि॑ । नरः॑ । य॒मुः॒ ।
पु॒त्र॒ऽकृ॒थे । न । जन॑यः ॥

सायणभाष्यम्

एषामश्वानंजघने हन्तव्यप्रदेशे चोदःप्रेरिका कशा अराग्रकाष्ठविशेषोवा वर्तते शीघ्रगमनायताडयन्वर्ततइत्यर्थः सक्थानि ऊरुप्रदेशान् नरोनेतारोमरुतोवि विविच्ययमुः नियच्छन्ति आशुधावनेन विवृताभवन्तीत्यर्थः विवृतौदृष्टान्तः-पुत्रकृथे पुत्रकरणे उत्पादने जनयः अप- त्योत्पादयित्र्योयोषितइव तायथापुत्रोत्पादनकाले संगमसमये ऊरू विवृतौकुर्वन्तितद्वदित्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६