मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६१, ऋक् ४

संहिता

परा॑ वीरास एतन॒ मर्या॑सो॒ भद्र॑जानयः ।
अ॒ग्नि॒तपो॒ यथास॑थ ॥

पदपाठः

परा॑ । वी॒रा॒सः॒ । इ॒त॒न॒ । मर्या॑सः । भद्र॑ऽजानयः ।
अ॒ग्नि॒ऽतपः॑ । यथा॑ । अस॑थ ॥

सायणभाष्यम्

कशाताडनादिलिंगेन जिगमिषून् मत्वाब्रूते-हेवीरासोवीराः अमित्राणामीरयितारः हेमर्यासोमर्त्येभ्योहिताः हेभद्रजानयः भद्रः स्तु- त्योजानिर्जन्मयेषांतेतथोक्ताः रुद्रपुत्राइत्यर्थः अग्नितपोग्निनातप्ताः ताम्रादयोयथादीप्ताः तद्वत्प्रदीप्ताः असथ भवथ अथवाग्नितप्तादग्धदे- हायथापलायन्तेतथाभवथेति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६