सन॒त्साश्व्यं॑ प॒शुमु॒त गव्यं॑ श॒ताव॑यम् ।
श्या॒वाश्व॑स्तुताय॒ या दोर्वी॒रायो॑प॒बर्बृ॑हत् ॥
सन॑त् । सा । अश्व्य॑म् । प॒शुम् । उ॒त । गव्य॑म् । श॒तऽअ॑वयम् ।
श्या॒वाश्व॑ऽस्तुताय । या । दोः । वी॒राय॑ । उ॒प॒ऽबर्बृ॑हत् ॥
सातरन्तमहिषी मत्द्यंसनत् प्रादात् किं अश्व्यं अश्वात्मकं तत्समूहात्मकंवा पशुं जातावेकवचनं उतापिच गव्यं गोसमूहात्मकं पशुं शता- वयं अनेकैरविभिर्युक्तं सनदिति सेत्युक्तं केत्याह याश्यावाश्वस्तुताय श्यावाश्वेनमयास्तुतायवीराय तरन्ताय दोः स्वकीयंभुजं उपबर्बृहत् उपोदयच्छदालिंगनाय सासनदिति यतोभर्तृप्रेमास्पदा तस्मादेव बहुधनंदातुंशक्तेत्यर्थः ॥ ५ ॥