मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६१, ऋक् ६

संहिता

उ॒त त्वा॒ स्त्री शशी॑यसी पुं॒सो भ॑वति॒ वस्य॑सी ।
अदे॑वत्रादरा॒धसः॑ ॥

पदपाठः

उ॒त । त्वा॒ । स्त्री । शशी॑यसी । पुं॒सः । भ॒व॒ति॒ । वस्य॑सी ।
अदे॑वऽत्रात् । अ॒रा॒धसः॑ ॥

सायणभाष्यम्

उतापिच त्वा एका शशीयसी शशीयसीतिएतन्महिष्यानाम सैवस्त्री यद्वा उतेत्ययमेवकारार्थे स्त्रीषुसैवप्रशस्येत्यर्थः त्वसमसिमनेमे- त्यनुच्चानीतिवचनात् त्वेतिनिघातः सैवपुंसःपुरुषाद्वस्यसी वसीयसी भवति कस्मात्पुंसइत्युच्यते अदेवत्रात् देवान येनत्रायन्तेस्तुत्यादि- नासः अदेवत्रः तस्मादराधसः राधोधनं दानार्हधनरहिताल्लुब्धकादित्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७