मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६१, ऋक् ७

संहिता

वि या जा॒नाति॒ जसु॑रिं॒ वि तृष्य॑न्तं॒ वि का॒मिन॑म् ।
दे॒व॒त्रा कृ॑णु॒ते मनः॑ ॥

पदपाठः

वि । या । जा॒नाति॑ । जसु॑रिम् । वि । तृष्य॑न्तम् । वि । का॒मिन॑म् ।
दे॒व॒ऽत्रा । कृ॒णु॒ते । मनः॑ ॥

सायणभाष्यम्

याशशीयसी जसुरिं व्यथितं जसिस्ताडनकर्मा उपक्षेपणकर्मावा तंविजानाति तथातृष्यन्तं विजानाति कामिनं धनाद्यभिलाषवन्तं विजानाति अनुकंपयाभिमतं दत्तवतीत्यर्थः देवत्रा मनः कृणुते कुरुते देवप्रीत्यर्थंप्रदानबुद्धिंकरोतियासैवस्त्रीतिपूर्वत्रसंबन्धः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७