मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६१, ऋक् ८

संहिता

उ॒त घा॒ नेमो॒ अस्तु॑त॒ः पुमाँ॒ इति॑ ब्रुवे प॒णिः ।
स वैर॑देय॒ इत्स॒मः ॥

पदपाठः

उ॒त । घ॒ । नेमः॑ । अस्तु॑तः । पुमा॑न् । इति॑ । ब्रु॒वे॒ । प॒णिः ।
सः । वैर॑ऽदेये । इत् । स॒मः ॥

सायणभाष्यम्

उतघापिच घेतिपूरणः नेमः त्वोनेमइत्यर्धस्येतिनिरुक्तम् । नेमःअर्धःजायापत्योर्मिलित्वैककार्यकर्तृत्वादेकएवपदार्थःअर्धशरीरस्यभार्ये- त्यादिस्मृतेः शशीयस्याअर्धभूतस्तरन्तः पुमान् अस्तुतइतिब्रुवे बहुधा स्तुतोपिगुणस्यातिबाहुल्यादस्तुतएवेतिब्रुवे पणिः स्तोताहं सच तरन्तोवैरदेये वीराधनानांप्रेरयितारोदानशीलाः तैर्दातव्यंधनंदेयं तस्मिन्धने समः सर्वेभ्योदातेत्यर्थः इदितिपूरणः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७