मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६१, ऋक् १०

संहिता

यो मे॑ धेनू॒नां श॒तं वैद॑दश्वि॒र्यथा॒ दद॑त् ।
त॒र॒न्त इ॑व मं॒हना॑ ॥

पदपाठः

यः । मे॒ । धे॒नू॒नाम् । श॒तम् । वैद॑त्ऽअश्विः । यथा॑ । दद॑त् ।
त॒र॒न्तःऽइ॑व । मं॒हना॑ ॥

सायणभाष्यम्

इयंपुरुमीह्ळस्तुतिः वैददश्विः पुरुमीह्ळोपियः मे मह्यं धेनूनांशतं यथा येनप्रकारेण ददत् दत्तवान् तथा मंहना मंहनीयानिधनान्यपि ददत् तरन्तइव सयथा धेनुशतंबहुविधंधनंचदत्तवान् तद्वद्वैददश्विःपुरुमीह्ळोपिददत् तंस्तुवइतिशेषः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७