मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६१, ऋक् ११

संहिता

य ईं॒ वह॑न्त आ॒शुभि॒ः पिब॑न्तो मदि॒रं मधु॑ ।
अत्र॒ श्रवां॑सि दधिरे ॥

पदपाठः

ये । ई॒म् । वह॑न्ते । आ॒शुऽभिः॑ । पिब॑न्तः । म॒दि॒रम् । मधु॑ ।
अत्र॑ । श्रवां॑सि । द॒धि॒रे॒ ॥

सायणभाष्यम्

इदानींमरुतएवैतइतिनिश्चित्य जनप्रसिद्धैर्माहात्म्यैः स्तौति-येमरुतईं इदानीं आशुभिः शीघ्रगामिभिरश्वैः वहन्ते उह्यन्ते किंकुर्वन्तः मदिरं मदकरं मधु सोमरसंपिबन्तः पाथेयत्वेन धृतंसोममित्यर्थः तेमरुतोत्रास्मिन्देशे श्रवांसि स्तुतिजनितानियशांसि दधिरे धारयन्ति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८