मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६१, ऋक् १२

संहिता

येषां॑ श्रि॒याधि॒ रोद॑सी वि॒भ्राज॑न्ते॒ रथे॒ष्वा ।
दि॒वि रु॒क्म इ॑वो॒परि॑ ॥

पदपाठः

येषा॑म् । श्रि॒या । अधि॑ । रोद॑सी॒ इति॑ । वि॒ऽभ्राज॑न्ते । रथे॑षु । आ ।
दि॒वि । रु॒क्मःऽइ॑व । उ॒परि॑ ॥

सायणभाष्यम्

येषांमरुतां श्रिया कांत्या रोदसी द्यावापृथिव्यावधि अधिष्ठिते भवतइतिशेषः यस्मादेतेमरुतोरथेषु विभ्राजन्ते विशेषेणदीप्यन्ते आ- इतिचार्थे तत्रदृष्टान्तः-उपरि उपरिभूतेदिविद्युलोके रुक्मोरोचमानआदित्यइव यद्वा उपरि रथस्योपरीतिवायोज्यम् ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८