मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६१, ऋक् १३

संहिता

युवा॒ स मारु॑तो ग॒णस्त्वे॒षर॑थो॒ अने॑द्यः ।
शु॒भं॒यावाप्र॑तिष्कुतः ॥

पदपाठः

युवा॑ । सः । मारु॑तः । ग॒णः । त्वे॒षऽर॑थः । अने॑द्यः ।
शु॒भ॒म्ऽयावा॑ । अप्र॑तिऽस्कुतः ॥

सायणभाष्यम्

समारुतोगणोयुवा सर्वत्रश्रयिता नित्यतरुणोवा त्वेषरथोदीप्तरथः अनेद्यः अनिन्द्यः शुभंयावा शोभनंगन्ता अप्रतिष्कुतः अप्रतिगतः अप्रतिशब्दितोवा एवंमहानुभावोगणोदीप्यतइति ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८