मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६१, ऋक् १४

संहिता

को वे॑द नू॒नमे॑षां॒ यत्रा॒ मद॑न्ति॒ धूत॑यः ।
ऋ॒तजा॑ता अरे॒पसः॑ ॥

पदपाठः

कः । वे॒द॒ । नू॒नम् । ए॒षा॒म् । यत्र॑ । मद॑न्ति । धूत॑यः ।
ऋ॒तऽजा॑ताः । अ॒रे॒पसः॑ ॥

सायणभाष्यम्

एषांमरुतांस्थानं कोवेद कोजानाति नूनं इदानीं यत्रस्थाने धूतयः शत्रूणांकंपका मदन्ति हृष्यन्ति ऋतजाताः जलार्थमुप्तन्नाः यज्ञेवा- प्रादुर्भूताः अरेपसः अपापाः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८