मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६१, ऋक् १५

संहिता

यू॒यं मर्तं॑ विपन्यवः प्रणे॒तार॑ इ॒त्था धि॒या ।
श्रोता॑रो॒ याम॑हूतिषु ॥

पदपाठः

यू॒यम् । मर्त॑म् । वि॒प॒न्य॒वः॒ । प्र॒ऽने॒तारः॑ । इ॒त्था । धि॒या ।
श्रोता॑रः । याम॑ऽहूतिषु ॥

सायणभाष्यम्

हेविपन्यवः स्तुतिकामामरुतोयूयं मर्तं मरणस्वभावं यजमानं इत्था अनयाधिया इदानींकृतप्रकारया अनुग्रहबुद्भ्या ईदृशेनस्तुतिकर्म- णावा निमित्तेनप्रणेतारः प्रकर्षेणप्रापयितारोभिमतंस्वर्गादिकं यामहूतिषु यामोगमनं तदर्थाहूतयोयस्मिन्नितियामहूतयोयज्ञाः तेषु श्रोतारःआह्वानानां ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८