मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६१, ऋक् १८

संहिता

उ॒त मे॑ वोचता॒दिति॑ सु॒तसो॑मे॒ रथ॑वीतौ ।
न कामो॒ अप॑ वेति मे ॥

पदपाठः

उ॒त । मे॒ । वो॒च॒ता॒त् । इति॑ । सु॒तऽसो॑मे । रथ॑ऽवीतौ ।
न । कामः॑ । अप॑ । वे॒ति॒ । मे॒ ॥

सायणभाष्यम्

हेऊर्म्ये उतापिच मे मां वोचतात् ब्रूहि किमिति उच्यते इति इत्थं कथमिति सुतसोमे कृतसोमयागे रथवीतौ राज्ञि मेकामः तत्पुत्री- विषयोनापवेति नापगच्छति नविरमत इतीत्थं वोचतात् ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९