मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६२, ऋक् २

संहिता

तत्सु वां॑ मित्रावरुणा महि॒त्वमी॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे ।
विश्वा॑ः पिन्वथ॒ः स्वस॑रस्य॒ धेना॒ अनु॑ वा॒मेकः॑ प॒विरा व॑वर्त ॥

पदपाठः

तत् । सु । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । म॒हि॒ऽत्वम् । ई॒र्मा । त॒स्थुषीः॑ । अह॑ऽभिः । दु॒दु॒ह्रे॒ ।
विश्वाः॑ । पि॒न्व॒थः॒ । स्वस॑रस्य । धेनाः॑ । अनु॑ । वा॒म् । एकः॑ । प॒विः । आ । व॒व॒र्त॒ ॥

सायणभाष्यम्

हेमित्रावरुणा वांयुवयोस्तन्महित्वं महत्त्वं सु सुष्ठु अतिप्रशस्तमित्यर्थः किंतदित्युच्यते ईर्मा सततगन्ता सर्वस्पप्रेरकोवा आदित्यःअह- भिरहोभिर्वर्षर्तुसंबन्धिभिः तस्थुषीः स्थावरभूताः अपोदुदुह्रे दुग्धे किंच स्वसरस्य स्वयंसर्तुरादित्यस्य विश्वाः सर्वाधेनाः लोकानां प्रीण- यित्रीर्द्युतीः पिन्वथः वर्धयथः वांयुवयोरेकः अप्रतियोगीपविः पविरितिरथस्यनेमिः पवीरथनेमिर्भवतीतियास्कवचनात् । तथाप्यत्रल- क्षितलक्षणयारथेवर्तते केवलचक्रस्यावर्तनायोगात् युवयोरेकोरथअन्वाववर्त अनुक्रमेणपरिभ्रमते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०