मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६२, ऋक् ४

संहिता

आ वा॒मश्वा॑सः सु॒युजो॑ वहन्तु य॒तर॑श्मय॒ उप॑ यन्त्व॒र्वाक् ।
घृ॒तस्य॑ नि॒र्णिगनु॑ वर्तते वा॒मुप॒ सिन्ध॑वः प्र॒दिवि॑ क्षरन्ति ॥

पदपाठः

आ । वा॒म् । अश्वा॑सः । सु॒ऽयुजः॑ । व॒ह॒न्तु॒ । य॒तऽर॑श्मयः । उप॑ । य॒न्तु॒ । अ॒र्वाक् ।
घृ॒तस्य॑ । निः॒ऽनिक् । अनु॑ । व॒र्त॒ते॒ । वा॒म् । उप॑ । सिन्ध॑वः । प्र॒ऽदिवि॑ । क्ष॒र॒न्ति॒ ॥

सायणभाष्यम्

हेमित्रावरुणौ वां युवां अश्वासोश्वाः सुयुजः सुष्ठुरथेयुक्ताः सन्तःआवहन्तु यतरश्मयः सारथिनियतप्रग्रहाः ते अर्वागुपयन्तु घृतस्योद- कस्य निर्निग्रूपं वामनुवर्तते अनुगच्छति किंच प्रदिवि पुराणनामैतत् पुराणाः सिन्धवः उपक्षरन्ति उपगच्छन्ति युवयोरनुग्रहात् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०