मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६२, ऋक् ७

संहिता

हिर॑ण्यनिर्णि॒गयो॑ अस्य॒ स्थूणा॒ वि भ्रा॑जते दि॒व्य१॒॑श्वाज॑नीव ।
भ॒द्रे क्षेत्रे॒ निमि॑ता॒ तिल्वि॑ले वा स॒नेम॒ मध्वो॒ अधि॑गर्त्यस्य ॥

पदपाठः

हिर॑ण्यऽनिर्निक् । अयः॑ । अ॒स्य॒ । स्थूणा॑ । वि । भ्रा॒ज॒ते॒ । दि॒वि । अ॒श्वाज॑नीऽइव ।
भ॒द्रे । क्षेत्रे॑ । निऽमि॑ता । तिल्वि॑ले । वा॒ । स॒नेम॑ । मध्वः॑ । अधि॑ऽगर्त्यस्य ॥

सायणभाष्यम्

अनयोरथः हिरण्यनिर्निक् हिरण्यरूपं निर्निगितिरूपनाम अस्यरथस्य स्थूणाः कीलकादयः अयः हिरण्यनामैतत् अयोविकाराइत्यर्थ: अयोमयावा तादृशोरथोदिवि अन्तरिक्षे विभ्राजते किमिव अश्वाजनीव अश्वाव्यापनशीलामेघाः तानजतिगच्छतीत्यश्वाजनीविद्युत् सेव दिविभ्राजते किंच भद्रे कल्याणे स्तुत्येवा क्षेत्रे देवयजने तिल्विलेवा तिलस्नेहने तिलुः स्निग्धा भूमिर्यस्यतत्क्षेत्रंतिल्विलं देवयजनं घृतसो- मादिना स्निग्धे भद्रेच क्षेत्रे निमिता स्थूणा यूपयष्टिरवस्थितः मध्वोमधुपूर्णं गर्तस्य गर्तंरथं सनेम संभजेम कर्मणिषष्ठ्यौ अधीतिपूरणः अथवा गर्तस्याधि रथस्योपरि मध्वोमधुसोमरसं सनेम स्थापयेमेत्यर्थः गर्त्यस्येतितुपाठे मधुनोविशेषणं दिगादित्वाद्यत् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१