मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६२, ऋक् ९

संहिता

यद्बंहि॑ष्ठं॒ नाति॒विधे॑ सुदानू॒ अच्छि॑द्रं॒ शर्म॑ भुवनस्य गोपा ।
तेन॑ नो मित्रावरुणावविष्टं॒ सिषा॑सन्तो जिगी॒वांसः॑ स्याम ॥

पदपाठः

यत् । बंहि॑ष्ठम् । न । अ॒ति॒ऽविधे॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । अच्छि॑द्रम् । शर्म॑ । भु॒व॒न॒स्य॒ । गो॒पा॒ ।
तेन॑ । नः॒ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒वि॒ष्ट॒म् । सिसा॑सन्तः । जि॒गी॒वांसः॑ । स्या॒म॒ ॥

सायणभाष्यम्

हेसुदानू शोबनदानौ हेभुवनस्यगोपा गोपौयुवां बंहिष्ठं बहुतमं यदच्छिद्रं अनवच्छिन्नं शर्म सुखंगृहंवा नातिविधे अतिवेद्धुमशक्यं शर्मेतिशर्मविशेषणं व्यधताडनइत्यस्मादत्युपपदेकृत्यार्थेकेन् संप्रसारणंच तादृशंशर्म धारयतः तेनशर्मणा नोस्मानविष्टं रक्षतं हेमित्रावरु- णौ सिषास्न्तोधनानिसंभक्तुमिच्छन्तोवयं जिगीवांसः शत्रूणांधनानिजेतुमिच्छन्तः स्याम भवेम ॥ ९ ॥

वेदार्थस्यप्रकाशेनतमोहर्दंनिवारयन् ॥ पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणामात्येनविरचितेमाधवीयेवेदार्थप्रकाशे ऋक्संहिताभाष्येचतुर्थाष्टकेतृतीयोध्यायःसमाप्तः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१