मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६३, ऋक् १

संहिता

ऋत॑स्य गोपा॒वधि॑ तिष्ठथो॒ रथं॒ सत्य॑धर्माणा पर॒मे व्यो॑मनि ।
यमत्र॑ मित्रावरु॒णाव॑थो यु॒वं तस्मै॑ वृ॒ष्टिर्मधु॑मत्पिन्वते दि॒वः ॥

पदपाठः

ऋत॑स्य । गो॒पौ॒ । अधि॑ । ति॒ष्ठ॒थः॒ । रथ॑म् । सत्य॑ऽधर्माणा । प॒र॒मे । विऽओ॑मनि ।
यम् । अत्र॑ । मि॒त्रा॒व॒रु॒णा॒ । अव॑थः । यु॒वम् । तस्मै॑ । वृ॒ष्टिः । मधु॑ऽमत् । पि॒न्व॒ते॒ । दि॒वः ॥

सायणभाष्यम्

'

यस्यनिःश्वसितंवेदायोवेदेभ्योखिलंजगत् ॥ निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरं ॥ १ ॥

अष्टकस्यचतुर्थस्यतृतीयोव्याकृतः स्फुटं ॥ अध्यायः सायणार्येणार्येणचतुर्थोव्याकरिष्यते ॥ २ ॥

ऋतस्यगोपावितिसप्तर्चंसप्तमंसूक्तं अत्रेयमनुक्रमणिका-ऋतस्यसप्तार्चनानाजागतमिति । आत्रेयोर्चनानानामऋषिः जगतीछन्दः तुह्यादिपरिभाषयामित्रादरुणौदेवता विनियोगोलैंगिकः ।

हेऋतस्योदकस्यगोपौरक्षितारौ सत्यधर्माणा सत्यधर्मणौ युवां रथमधितिष्ठथः आरोहथः अस्मद्यज्ञमागमनार्थं कुत्र परमेव्योमनि निरतिशयेआकाशे हेमित्रावरुणौ युवं युवां अत्रास्मिन्यज्ञे यं यजमानं अवथोरक्षथः तस्मैयजमानाय वृष्टिः पर्जन्योमधुमदुदकं दिवोद्यु- लोकात्पिन्वते सिंचतिवर्धयति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः