मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६३, ऋक् २

संहिता

स॒म्राजा॑व॒स्य भुव॑नस्य राजथो॒ मित्रा॑वरुणा वि॒दथे॑ स्व॒र्दृशा॑ ।
वृ॒ष्टिं वां॒ राधो॑ अमृत॒त्वमी॑महे॒ द्यावा॑पृथि॒वी वि च॑रन्ति त॒न्यवः॑ ॥

पदपाठः

स॒म्ऽराजौ॑ । अ॒स्य । भुव॑नस्य । रा॒ज॒थः॒ । मित्रा॑वरुणा । वि॒दथे॑ । स्वः॒ऽदृशा॑ ।
वृ॒ष्टिम् । वा॒म् । राधः॑ । अ॒मृ॒त॒ऽत्वम् । ई॒म॒हे॒ । द्यावा॑पृथि॒वी इति॑ । वि । च॒र॒न्ति॒ । त॒न्यवः॑ ॥

सायणभाष्यम्

हेमित्रावरुणौ सम्राजौ सम्यक् राजमानौ युवामस्य भुवनस्य राजथः ईशाथे स्वर्दृशा स्वर्गस्य द्रष्टारौ युवां विदथेस्मद्यज्ञे सम्राजावि- तिसंबन्धः वां युवां वृष्टिं राधोधनं वृष्ट्याख्यंधनं अमृतत्वंस्वर्गंच ईमहे प्रार्थयामहे युवयोस्तन्यवोविस्तृताः रश्मयोद्यावापृथिवी विचरन्ति विविधंप्राप्नुवन्ति अथवा वृष्टिंधनममृतत्वंचईमहे ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः