मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६३, ऋक् ३

संहिता

स॒म्राजा॑ उ॒ग्रा वृ॑ष॒भा दि॒वस्पती॑ पृथि॒व्या मि॒त्रावरु॑णा॒ विच॑र्षणी ।
चि॒त्रेभि॑र॒भ्रैरुप॑ तिष्ठथो॒ रवं॒ द्यां व॑र्षयथो॒ असु॑रस्य मा॒यया॑ ॥

पदपाठः

स॒म्ऽराजौ॑ । उ॒ग्रा । वृ॒ष॒भा । दि॒वः । पती॒ इति॑ । पृ॒थि॒व्याः । मि॒त्रावरु॑णा । विच॑र्षणी॒ इति॒ विऽच॑र्षणी ।
चि॒त्रेभिः॑ । अ॒भ्रैः । उप॑ । ति॒ष्ठ॒थः॒ । रव॑म् । द्याम् । व॒र्ष॒य॒थः॒ । असु॑रस्य । मा॒यया॑ ॥

सायणभाष्यम्

सम्राजौ सम्यक् राजमानौ उग्रा उद्गूर्णबलौ वृषभा वर्षितारौ दिवोद्युलोकस्यपती स्वामिनौ पृथिव्याश्चपती विश्वचर्षणी सर्वस्यद्र- ष्टारौ मित्रावरुणौ एवंमहानुभावौ चित्रेभिश्चायनीयैरभ्रैर्मेघैःसह रवं स्तोत्रं उपतिष्ठथः पश्चात् द्यांच वर्षयथः असुरस्योदकनिरसितुः पर्जन्यस्य मायया प्रज्ञया सामर्थ्येन ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः