मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६३, ऋक् ५

संहिता

रथं॑ युञ्जते म॒रुतः॑ शु॒भे सु॒खं शूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु ।
रजां॑सि चि॒त्रा वि च॑रन्ति त॒न्यवो॑ दि॒वः स॑म्राजा॒ पय॑सा न उक्षतम् ॥

पदपाठः

रथ॑म् । यु॒ञ्ज॒ते॒ । म॒रुतः॑ । शु॒भे । सु॒खम् । शूरः॑ । न । मि॒त्रा॒व॒रु॒णा॒ । गोऽइ॑ष्टिषु ।
रजां॑सि । चि॒त्रा । वि । च॒र॒न्ति॒ । त॒न्यवः॑ । दि॒वः । स॒म्ऽरा॒जा॒ । पय॑सा । नः॒ । उ॒क्ष॒त॒म् ॥

सायणभाष्यम्

हेमित्रावरुणौ युवयोरनुग्रहात् मरुतः शुभे उदकार्थं सुखं शोभनाक्षद्वारं रथंयुंजते अश्वैर्योजयन्ति शूरौन शूरइव सयथायुद्धार्थंरथंयुन- क्तितद्वत् गविष्टिषु गवामुदकानामेषणेषुनिमित्तेषु चित्रा चायनीयानि रजांसि लोकान् तन्यवः ततास्तेम्रुतोविचरन्ति विविधंचरन्ति तस्मात्तैः सहितौ हेसम्राजा युवां दिवोद्युलोकात् पयसोदकेन नोस्मानुक्षतं सिंचतं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः