मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६४, ऋक् १

संहिता

वरु॑णं वो रि॒शाद॑समृ॒चा मि॒त्रं ह॑वामहे ।
परि॑ व्र॒जेव॑ बा॒ह्वोर्ज॑ग॒न्वांसा॒ स्व॑र्णरम् ॥

पदपाठः

वरु॑णम् । वः॒ । रि॒शाद॑सम् । ऋ॒चा । मि॒त्रम् । ह॒वा॒म॒हे॒ ।
परि॑ । व्र॒जाऽइ॑व । बा॒ह्वोः । ज॒ग॒न्वांसा॑ । स्वः॑ऽनरम् ॥

सायणभाष्यम्

वोयुवयोर्मध्ये व्यत्ययेनबहुवचनं रिशादसं रिशन्तिहिंसन्तीतिरिशाःशत्रवः तेषांप्रेरकं स्वर्णरं स्वर्गस्यनेतारं एतद्भ्यवहितमप्युभय- त्रसंबध्यते एवंविधंवरुणं उक्तलक्षणंमित्रं च ऋचा मंत्रेण हवामहे आह्वयामः अथावयुत्योच्यते व्रजेव गोयूथानीव बाह्वोःबलेन परिज- गन्वांसा परिगच्छन्तौ ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः