मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६४, ऋक् ३

संहिता

यन्नू॒नम॒श्यां गतिं॑ मि॒त्रस्य॑ यायां प॒था ।
अस्य॑ प्रि॒यस्य॒ शर्म॒ण्यहिं॑सानस्य सश्चिरे ॥

पदपाठः

यत् । नू॒नम् । अ॒श्याम् । गति॑म् । मि॒त्रस्य॑ । या॒या॒म् । प॒था ।
अस्य॑ । प्रि॒यस्य॑ । शर्म॑णि । अहिं॑सानस्य । स॒श्चि॒रे॒ ॥

सायणभाष्यम्

यत् यदा नूनमिदानीं गतिं गमनमश्यांप्राप्नुयां यद्योगादनिघातः तदामित्रस्य मित्रभूतस्य पथा मार्गेण मित्रप्रापकेणमार्गेण यायां ग- च्छेयं मित्रोनयतुविद्वानित्यादिषुमित्रस्येष्टदेशगमयितृत्वंप्रसिद्धं नकेवलमहमेकएवगन्ता किन्तु सर्वेपितथागमन्नित्याह अस्यप्रियस्यमित्र- स्येत्यर्थः अहिंसानस्य अहिंसतः यतोयमहन्ता अतःप्रियइत्यर्थः तस्यशर्मणि सुखे गृहेस्थानेवा सश्चिरे संगताः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः