मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६४, ऋक् ४

संहिता

यु॒वाभ्यां॑ मित्रावरुणोप॒मं धे॑यामृ॒चा ।
यद्ध॒ क्षये॑ म॒घोनां॑ स्तोतॄ॒णां च॑ स्पू॒र्धसे॑ ॥

पदपाठः

यु॒वाभ्या॑म् । मि॒त्रा॒व॒रु॒णा॒ । उ॒प॒ऽमम् । धे॒या॒म् । ऋ॒चा ।
यत् । ह॒ । क्षये॑ । म॒घोना॑म् । स्तो॒तॄ॒णाम् । च॒ । स्पू॒र्धसे॑ ॥

सायणभाष्यम्

हेमित्रावरुणा युवाभ्यांदातव्यं उपमं उपसमीपेमीयमानंधनं ऋचा स्तुत्यासाधनेन धेयां धारयामि यद्ध यत् ख्लु युवाभ्यांसकाशादा- प्तंधनं मघोनां धनवतां अदातॄणांस्तोतॄणांच क्षये गृहे स्पूर्धसे स्पर्धनायभवति धनिकानांस्तोतॄणांच धनाधिक्यविषयेस्पर्धाभवतीत्यर्थः अपरिमितंधनंभवतीतिभावः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः