मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६४, ऋक् ५

संहिता

आ नो॑ मित्र सुदी॒तिभि॒र्वरु॑णश्च स॒धस्थ॒ आ ।
स्वे क्षये॑ म॒घोनां॒ सखी॑नां च वृ॒धसे॑ ॥

पदपाठः

आ । नः॒ । मि॒त्र॒ । सु॒दी॒तिऽभिः॑ । वरु॑णः । च॒ । स॒धऽस्थे॑ । आ ।
स्वे । क्षये॑ । म॒घोना॑म् । सखी॑नाम् । च॒ । वृ॒धसे॑ ॥

सायणभाष्यम्

हेमित्र त्वंचवरुणश्च सुदीतिभिः सुदीप्तियुक्तौ युवां नोस्मभ्यं सधस्थे सहस्थानेयज्ञे आगच्छ्तं द्वितीयआकारोनर्थकआदरार्थोवा किम- र्थमिति उच्यते मघोनां धनवतां ह्विष्मतां सखीनांच युवयोः सखीभूतानामस्माकं क्षये गृहे स्वे स्वकीये वृधसे वर्धनाय ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः