मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६४, ऋक् ६

संहिता

यु॒वं नो॒ येषु॑ वरुण क्ष॒त्रं बृ॒हच्च॑ बिभृ॒थः ।
उ॒रु णो॒ वाज॑सातये कृ॒तं रा॒ये स्व॒स्तये॑ ॥

पदपाठः

यु॒वम् । नः॒ । येषु॑ । व॒रु॒णा॒ । क्ष॒त्रम् । बृ॒हत् । च॒ । बि॒भृ॒थः ।
उ॒रु । नः॒ । वाज॑ऽसातये । कृ॒तम् । रा॒ये । स्व॒स्तये॑ ॥

सायणभाष्यम्

हेवरुण मित्रावरुणौ युवं युवां नोस्माकं क्षत्रं बलं बृहत् ब्रह्मपरिवृढमन्नंच येषु स्तोत्रेषुनिमित्तेषु बिभृथः धारयथः युवाभ्यांधृतंबलम- न्नंच नोस्मभ्यं वाजसातये अन्नस्यलाभाय यज्ञायवा राये धनाय स्वस्तये क्षेमायच उरु विस्तीर्णं कृतं कुरुतम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः