मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६४, ऋक् ७

संहिता

उ॒च्छन्त्यां॑ मे यज॒ता दे॒वक्ष॑त्रे॒ रुश॑द्गवि ।
सु॒तं सोमं॒ न ह॒स्तिभि॒रा प॒ड्भिर्धा॑वतं नरा॒ बिभ्र॑तावर्च॒नान॑सम् ॥

पदपाठः

उ॒च्छन्त्या॑म् । मे॒ । य॒ज॒ता । दे॒वऽक्ष॑त्रे । रुश॑त्ऽगवि ।
सु॒तम् । सोम॑म् । न । ह॒स्तिऽभिः॑ । आ । प॒ट्ऽभिः । धा॒व॒त॒म् । न॒रा॒ । बिभ्र॑तौ । अ॒र्च॒नान॑सम् ॥

सायणभाष्यम्

उच्छन्त्यां उषसि मेसोममितिसंबन्धः यजता यष्टव्यौ रुशद्गवि सोचमनरश्मौप्रातः सवने देवक्षत्रे देवानांक्षत्रंबलंयस्मिन्गृहेतद्देवक्षत्रं तसिन्मेमदीयं सुतमभिषुतं सोमं न नेतिसंप्रत्यर्थे इदानीं हस्तिभिः हस्तवद्भिः हंतेर्गतिकर्मणोहस्तशब्दः गमनसाधनपादवद्भिरित्यर्थः पड् भिःपादवद्भिश्च पादचतुष्टयोपेतैरश्वैराधावतं आग्च्छ्तं नरा हेनेतारौमित्रावरुणौ ॥ ७ ॥

यश्चिकेतेतिषळृचंनवमंसूक्तं रातहव्यस्यात्रेयस्यार्षं मैत्रावरुणं यश्चिकेतषळ्रातहव्यइत्यनुक्रामणिका । पंक्त्यंतंत्वित्युक्तत्वात्पंत्तयन्त- परिभाषयानुष्टुभं अन्त्यापंक्तिः विनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः