मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६५, ऋक् १

संहिता

यश्चि॒केत॒ स सु॒क्रतु॑र्देव॒त्रा स ब्र॑वीतु नः ।
वरु॑णो॒ यस्य॑ दर्श॒तो मि॒त्रो वा॒ वन॑ते॒ गिरः॑ ॥

पदपाठः

यः । चि॒केत॑ । सः । सु॒ऽक्रतुः॑ । दे॒व॒ऽत्रा । सः । ब्र॒वी॒तु॒ । नः॒ ।
वरु॑णः । यस्य॑ । द॒र्श॒तः । मि॒त्रः । वा॒ । वन॑ते । गिरः॑ ॥

सायणभाष्यम्

यःस्तोता चिकेत जानातिस्तुतिं युवयोः ससुक्रतुः सएवशोभनकर्मा देवत्रा देवेषु स्तोतृषुमध्ये यद्वा देवेषुमध्ये युवयोरेवस्तुतिंयश्चिके- तससुक्रतुरिति ससुकर्मा नोस्माकंब्रवीतु स्तुतिंपरमुपदिशतु यस्यदर्शतोदर्शनीयोवरुणोदर्शनीयोमित्रोवा मित्रश्च वाशब्दश्चार्थे गिरोस्म- दीयास्तुतीर्वनतेसंभजते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः