मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६५, ऋक् २

संहिता

ता हि श्रेष्ठ॑वर्चसा॒ राजा॑ना दीर्घ॒श्रुत्त॑मा ।
ता सत्प॑ती ऋता॒वृध॑ ऋ॒तावा॑ना॒ जने॑जने ॥

पदपाठः

ता । हि । श्रेष्ठ॑ऽवर्चसा । राजा॑ना । दी॒र्घ॒श्रुत्ऽत॑मा ।
ता । सत्प॑ती॒ इति॒ सत्ऽप॑ती । ऋ॒त॒ऽवृधा॑ । ऋ॒तऽवा॑ना । जने॑ऽजने ॥

सायणभाष्यम्

ताहि तौखलुमित्रावरुणौ श्रेष्ठवर्चसा प्रशस्ततेजस्कौ राजाना ईश्वरौ दीर्घश्रुत्तमा दूरदेशादाह्वानश्रोतृतमौ ता तौ सत्पती सतांयज- मानानांस्वामिनौ ऋतावृधा यज्ञस्योदकस्यवावर्धयितारौ जने जने सर्वेषुस्तोतृषुनिमित्तेषु ऋतावाना गमनवन्तौ ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः