मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६५, ऋक् ३

संहिता

ता वा॑मिया॒नोऽव॑से॒ पूर्वा॒ उप॑ ब्रुवे॒ सचा॑ ।
स्वश्वा॑स॒ः सु चे॒तुना॒ वाजाँ॑ अ॒भि प्र दा॒वने॑ ॥

पदपाठः

ता । वा॒म् । इ॒या॒नः । अव॑से । पूर्वौ॑ । उप॑ । ब्रु॒वे॒ । सचा॑ ।
सु॒ऽअश्वा॑सः । सु । चे॒तुना॑ । वाजा॑न् । अ॒भि । प्र । दा॒वने॑ ॥

सायणभाष्यम्

ता तौ पूर्वौ पुरातनौ वां युवां इयानोगच्छन् अवसे रक्षणाय सचा सह उपब्रुदे उपेत्यस्तौमि स्वश्वासः स्वश्वावयमात्रेयाः सुचेतुना शोभनप्रज्ञानौयुवां वाजान् अभि अन्नानिअभिलक्ष्य प्र प्रकर्षेण दावने दानाय स्तुमइतिशॆषः यद्वा स्वश्वासः स्वश्वौ द्वितीयाद्विवचनस्यश- सादेशः उपब्रुवइतिसंबन्धः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः