मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६५, ऋक् ४

संहिता

मि॒त्रो अं॒होश्चि॒दादु॒रु क्षया॑य गा॒तुं व॑नते ।
मि॒त्रस्य॒ हि प्र॒तूर्व॑तः सुम॒तिरस्ति॑ विध॒तः ॥

पदपाठः

मि॒त्रः । अं॒होः । चि॒त् । आत् । उ॒रु । क्षया॑य । गा॒तुम् । व॒न॒ते॒ ।
मि॒त्रस्य॑ । हि । प्र॒ऽतूर्व॑तः । सु॒ऽम॒तिः । अस्ति॑ । वि॒ध॒तः ॥

सायणभाष्यम्

मित्रोदेवः अंहोश्चित् अंहस्वतोपिस्तोतुः आत् अनन्तरमेव उरुउरवे क्षयाव गृहाय निवासायवा गातुमुपायं वनते प्रयच्छति मित्रस्य- हि मित्रस्यसुमतिः शोभनबुद्धिः प्रतूर्वतः प्रकर्षेणहिंसतोपि विधतः परिचरतः शुश्रूषकस्य अस्तिहि भवतिखलु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः