मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६५, ऋक् ५

संहिता

व॒यं मि॒त्रस्याव॑सि॒ स्याम॑ स॒प्रथ॑स्तमे ।
अ॒ने॒हस॒स्त्वोत॑यः स॒त्रा वरु॑णशेषसः ॥

पदपाठः

व॒यम् । मि॒त्रस्य॑ । अव॑सि । स्याम॑ । स॒प्रथः॑ऽतमे ।
अ॒ने॒हसः॑ । त्वाऽऊ॑तयः । स॒त्रा । वरु॑णऽशेषसः ॥

सायणभाष्यम्

वयंयजमानामित्रस्य दुःखनिवारकस्यदेवस्य सप्रथस्तमे सर्वतःपृथुतमे अवसि रक्षणे वयंस्याम भवेम किंच अनेहसःअपापाः त्वोतयः त्वयारक्षिताः वरुणशेषसः शेषइत्यपत्यनाम वारकाः पुत्रायेषांतेतादृशाः सत्रा वयंसर्वेसहैवभवेम ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः