मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६५, ऋक् ६

संहिता

यु॒वं मि॑त्रे॒मं जनं॒ यत॑थ॒ः सं च॑ नयथः ।
मा म॒घोन॒ः परि॑ ख्यतं॒ मो अ॒स्माक॒मृषी॑णां गोपी॒थे न॑ उरुष्यतम् ॥

पदपाठः

यु॒वम् । मि॒त्रा॒ । इ॒मम् । जन॑म् । यत॑थः । सम् । च॒ । न॒य॒थः॒ ।
मा । म॒घोनः॑ । परि॑ । ख्य॒त॒म् । मो इति॑ । अ॒स्माक॑म् । ऋषी॑णाम् । गो॒ऽपी॒थे । नः॒ । उ॒रु॒ष्य॒त॒म् ॥

सायणभाष्यम्

हेमित्रामित्रावरुणौ युवं युवं इमंजनंस्तोतारंमांप्रति यतथःआगच्छथः आगत्यच संचनयथः संनयथश्चकामान्प्रापयथः यद्वा यतथइत्यं- तर्णीतण्यर्थोयं अहनियतथः व्यापारेषुगमयथः रात्रौचसंनयथः निर्व्यापारंकारयथः मघोनः हविर्लक्षणान्नवतःअस्मान् मापरिख्यतं माप- रिख्यतं मापरित्यजतं मो मैव ऋषीणामस्माकं पुत्रानपि परिख्यतं किंतु गोपीथे गौः सोमरसः तस्यपानंयस्मिन् सगोपीथोयज्ञः तस्मिन् नः उरुष्यतंरक्षतम् ॥ ६ ॥

आचिकितानेतिषळृचंदशमंसूक्तं रातहव्यस्यार्षं आनुष्टुभं मैत्रावरुणं अत्रानुक्रमणिकाआचिकितानानुष्टुभन्त्विति । आद्यस्तृचोदशरा- त्रेचतुर्थेहनिप्रउगशस्त्रेमैत्रावरुणस्य सूत्रितंच-आचिकितानसुक्रतूत्यमुवोअप्रहणमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः