मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६६, ऋक् १

संहिता

आ चि॑कितान सु॒क्रतू॑ दे॒वौ म॑र्त रि॒शाद॑सा ।
वरु॑णाय ऋ॒तपे॑शसे दधी॒त प्रय॑से म॒हे ॥

पदपाठः

आ । चि॒कि॒ता॒न॒ । सु॒क्रतू॒ इति॑ सु॒ऽक्रतू॑ । दे॒वौ । म॒र्त॒ । रि॒शाद॑सा ।
वरु॑णाय । ऋ॒तऽपे॑शसे । द॒धी॒त । प्रय॑से । म॒हे ॥

सायणभाष्यम्

हेचिकितान जानन् स्तुतिं हेमर्त मनुष्य शतहव्यत्वमितितस्यैवंसंबोधनं सुक्रतू शोभनकर्माणौ रिशादसा हिंसकानांहिंसकौदेवौ आ आकारयेतिशेषः आहूयच ऋतपेशसे पेशइतिरूपनाम ऋतमुदकं उदकमेवरूपंयस्यतादृशाय वरुणाय प्रयसे मत्वर्थोलुप्यते हविर्लक्षणा- न्नवते महे महतेपूज्याय दधीतदद्याः हविरितिशेषः द्वितीयार्थेवाचतुर्थी महद्धविर्दधीतमहतोन्नस्यलाभायेतिवायोज्यं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः