मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६६, ऋक् २

संहिता

ता हि क्ष॒त्रमवि॑ह्रुतं स॒म्यग॑सु॒र्य१॒॑माशा॑ते ।
अध॑ व्र॒तेव॒ मानु॑षं॒ स्व१॒॑र्ण धा॑यि दर्श॒तम् ॥

पदपाठः

ता । हि । क्ष॒त्रम् । अवि॑ऽह्रुतम् । स॒म्यक् । अ॒सु॒र्य॑म् । आशा॑ते॒ इति॑ ।
अध॑ । व्र॒ताऽइ॑व । मानु॑षम् । स्वः॑ । न । धा॒यि॒ । द॒र्श॒तम् ॥

सायणभाष्यम्

ताहि हीतिहेतौ यस्मात्ता तौ क्षत्रं बलं अविह्रुतं अहिंस्यं असुर्यं असुरविघाति महद्बलं सम्यगाशाते व्याप्नुतः अध अतोहेतोर्मानुषंमनु- ष्येषुप्रवृत्तं व्रतेव कर्मेव तद्यथा मनुष्येषुनियतं स्वर्णसूर्यइव सयथादिविदृश्यतेतद्वत् दर्शतं दर्शनीयं बलं धायि यज्ञेनिहितं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः