मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६६, ऋक् ३

संहिता

ता वा॒मेषे॒ रथा॑नामु॒र्वीं गव्यू॑तिमेषाम् ।
रा॒तह॑व्यस्य सुष्टु॒तिं द॒धृक्स्तोमै॑र्मनामहे ॥

पदपाठः

ता । वा॒म् । एषे॑ । रथा॑नाम् । उ॒र्वीम् । गव्यू॑तिम् । ए॒षा॒म् ।
रा॒तऽह॑व्यस्य । सु॒ऽस्तु॒तिम् । द॒धृक् । स्तोमैः॑ । म॒ना॒म॒हे॒ ॥

सायणभाष्यम्

हेमित्रावरुणौ ता तौप्रसिद्धौ वां युवां रथानां अस्मदीयानामेषांपुरतोवर्तमानानां उर्वी प्रभूतां गव्यूतिं अतिविस्तृतंमार्गं एषे गन्तुं मार्गरक्षणायेत्यर्थः तुमर्थेअसेन्प्रत्ययः तदर्थंवां मनामहे स्तुमः रातहव्यस्यऋषेः रातहव्यसंबन्धिभिः सुष्टुतिं सुष्टुतिभिः शोभनस्तुतिसा- धनैः स्तोमैः दृधृक् धर्षकौयुवां ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः