मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६६, ऋक् ६

संहिता

आ यद्वा॑मीयचक्षसा॒ मित्र॑ व॒यं च॑ सू॒रयः॑ ।
व्यचि॑ष्ठे बहु॒पाय्ये॒ यते॑महि स्व॒राज्ये॑ ॥

पदपाठः

आ । यत् । वा॒म् । ई॒य॒ऽच॒क्ष॒सा॒ । मित्रा॑ । व॒यम् । च॒ । सू॒रयः॑ ।
व्यचि॑ष्ठे । ब॒हु॒ऽपाय्ये॑ । यते॑महि । स्व॒ऽराज्ये॑ ॥

सायणभाष्यम्

हेईयचक्षसा व्याप्तदर्शनौ हेमित्रा मित्रावरुणौ वां युवां यत् येवयंच सूरयः स्तोतारः आ आह्वयामः व्यचिष्ठे अत्यन्तविस्तृते बहुपा- य्ये बहुभिर्गन्तव्ये बहुभीरक्षितव्येवा स्वराज्ये स्वराट्त्वाय एवंविधाराज्यार्थं यतेमहि गच्छेम ॥ ६ ॥

बळिल्थादेवेतिपंचर्चमेकादशंसूक्तं अत्रेयमनुक्रमणिका-बळित्थापंचयजतइति यजतोमामात्रेयऋषिः आनुष्टुभंत्वित्युक्तत्वादिदम- प्यानुष्टुभं मित्रावरुणौदेवता विनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः