मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६७, ऋक् १

संहिता

बळि॒त्था दे॑व निष्कृ॒तमादि॑त्या यज॒तं बृ॒हत् ।
वरु॑ण॒ मित्रार्य॑म॒न्वर्षि॑ष्ठं क्ष॒त्रमा॑शाथे ॥

पदपाठः

बट् । इ॒त्था । दे॒वा॒ । निः॒ऽकृ॒तम् । आदि॑त्या । य॒ज॒तम् । बृ॒हत् ।
वरु॑ण । मित्र॑ । अर्य॑मन् । वर्षि॑ष्ठम् । क्ष॒त्रम् । आ॒शा॒थे॒ इति॑ ॥

सायणभाष्यम्

हेदेवा द्योतमानौ हेआदित्या अदितेःपुत्रौ हेवरुण हेअर्यमन् अरीणांनियमितर्मित्रदेव युवां बट् सत्यं अबाध्यं इत्था इत्थं इदानीं वर्त- मानप्रकारेण यजतं यष्टव्यं बृह्दतिप्रवृद्धं वर्षिष्ठं प्रवृद्धतमं क्षत्रं बलं आशाथे अश्नुवाथे यद्वा अर्यमा पृथगेव निर्देष्टव्यः द्विवचनं बहुवचनी- कर्तव्यम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः