मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६७, ऋक् २

संहिता

आ यद्योनिं॑ हिर॒ण्ययं॒ वरु॑ण॒ मित्र॒ सद॑थः ।
ध॒र्तारा॑ चर्षणी॒नां य॒न्तं सु॒म्नं रि॑शादसा ॥

पदपाठः

आ । यत् । योनि॑म् । हि॒र॒ण्यय॑म् । वरु॑ण । मित्र॑ । सद॑थः ।
ध॒र्तारा॑ । च॒र्ष॒णी॒नाम् । य॒न्तम् । सु॒म्नम् । रि॒शा॒द॒सा॒ ॥

सायणभाष्यम्

यद्यस्माद्धिरण्ययं हितरमणीयं योनिं यज्ञभूमिं हेवरुण हेमित्र आसदथः आगच्छथः तस्माच्चर्षणीनां मनुष्याणां धर्तारा धारकौच हेरिशादसा हिंसकानांक्षेप्तारौयुवां अस्मभ्यं सुम्नं सुखं यन्तं कुरुतमित्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः