मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६७, ऋक् ३

संहिता

विश्वे॒ हि वि॒श्ववे॑दसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
व्र॒ता प॒देव॑ सश्चिरे॒ पान्ति॒ मर्त्यं॑ रि॒षः ॥

पदपाठः

विश्वे॑ । हि । वि॒श्वऽवे॑दसः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
व्र॒ता । प॒दाऽइ॑व । स॒श्चि॒रे॒ । पान्ति॑ । मर्त्य॑म् । रि॒षः ॥

सायणभाष्यम्

विश्वेहि सर्वेपि हीतिअप्यर्थे विश्ववेदसः सर्वविदः सर्वधनावा वरुणोमित्रोर्यमाचैतेत्रयः सर्वे व्रतास्मदीयानिकर्माणि पदेव स्थाना- नीव सश्चिरे संगताभवन्ति आगत्यच मां मर्त्यं रिषोहिंसकात् पान्ति रक्षन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः