मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६७, ऋक् ४

संहिता

ते हि स॒त्या ऋ॑त॒स्पृश॑ ऋ॒तावा॑नो॒ जने॑जने ।
सु॒नी॒थासः॑ सु॒दान॑वों॒ऽहोश्चि॑दुरु॒चक्र॑यः ॥

पदपाठः

ते । हि । स॒त्याः । ऋ॒त॒ऽस्पृशः॑ । ऋ॒तऽवा॑नः । जने॑ऽजने ।
सु॒ऽनी॒थासः॑ । सु॒ऽदान॑वः । अं॒होः । चि॒त् । उ॒रु॒ऽचक्र॑यः ॥

सायणभाष्यम्

तेहि तेखलु सत्याः सत्यभुताः स्त्यफलावा ऋतस्पृशौदकस्पृशत्वस्यकतांरः ऋतावानोयज्ञवन्तः जनेजने सर्वेषुयजमानेषु सुनीथासः सुनयनाः सुदानवः सुदानाः हीतिप्रसिद्धवाची सर्वत्रसंबन्धनीयः एवंमहानुभावावरुणादयः अंहोश्चित् चिदप्यर्थे पापिनोपिस्वस्तोतुरुरु- चक्रयः प्रभूतधनादिकर्तारः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः