मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६८, ऋक् १

संहिता

प्र वो॑ मि॒त्राय॑ गायत॒ वरु॑णाय वि॒पा गि॒रा ।
महि॑क्षत्रावृ॒तं बृ॒हत् ॥

पदपाठः

प्र । वः॒ । मि॒त्राय॑ । गा॒य॒त॒ । वरु॑णाय । वि॒पा । गि॒रा ।
महि॑ऽक्षत्रौ । ऋ॒तम् । बृ॒हत् ॥

सायणभाष्यम्

हेमदीयाऋत्विजः वोयूयमित्यर्थः मित्रायवरुणायच विपा व्याप्तया गिरा स्तुत्या प्रगायत स्तुतिंकुरुत स्तुत्यास्तुवतेत्येतत्पाकंपचती- तिवत् हेमहिक्षत्रौ प्रभूतबलौ युवां ऋतं यज्ञं बृहत् महत् अतिप्रशस्तंस्तुत्यर्थमागच्छतमितिशेषः अथवा महत्प्रभूतं ऋतं स्तोत्रं श्रृणु- तमितिशेषः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः