मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६८, ऋक् २

संहिता

स॒म्राजा॒ या घृ॒तयो॑नी मि॒त्रश्चो॒भा वरु॑णश्च ।
दे॒वा दे॒वेषु॑ प्रश॒स्ता ॥

पदपाठः

स॒म्ऽराजा॑ । या । घृ॒तयो॑नी॒ इति॑ घृ॒तऽयो॑नी । मि॒त्रः । च॒ । उ॒भा । वरु॑णः । च॒ ।
दे॒वा । दे॒वेषु॑ । प्र॒ऽश॒स्ता ॥

सायणभाष्यम्

या यौमित्रश्चवरुणश्च परस्परापेक्षयाचशब्दः उभा उभौ सम्राजा सर्वस्यस्वामिनौ घृतयोनी उदकस्योत्पदकौ देवौ द्योतमानौ देवेषु- मध्ये प्रशस्ता प्रकर्षेणस्तुत्यौ तौ गायतेतिपूर्वत्रान्वयः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः