मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६८, ऋक् ३

संहिता

ता नः॑ शक्तं॒ पार्थि॑वस्य म॒हो रा॒यो दि॒व्यस्य॑ ।
महि॑ वां क्ष॒त्रं दे॒वेषु॑ ॥

पदपाठः

ता । नः॒ । श॒क्त॒म् । पार्थि॑वस्य । म॒हः । रा॒यः । दि॒व्यस्य॑ ।
महि॑ । वा॒म् । क्ष॒त्रम् । दे॒वेषु॑ ॥

सायणभाष्यम्

ता तौ देवौ नोस्मदर्थं पार्थिवस्य पृथिवीसंबद्धस्य दिव्यस्य दिविभवस्यच महोमहतोरायोधनस्य शक्तं समर्थौभवतं दातुमितिशेषः हेदेवौ वांयुवयोर्महि महत्पूज्यं क्षत्रं बलं देवेषु प्रसिद्धंस्तुमइतिशेषः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः