मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६९, ऋक् १

संहिता

त्री रो॑च॒ना व॑रुण॒ त्रीँरु॒त द्यून्त्रीणि॑ मित्र धारयथो॒ रजां॑सि ।
वा॒वृ॒धा॒नाव॒मतिं॑ क्ष॒त्रिय॒स्यानु॑ व्र॒तं रक्ष॑माणावजु॒र्यम् ॥

पदपाठः

त्री । रो॒च॒ना । व॒रु॒ण॒ । त्रीन् । उ॒त । द्यून् । त्रीणि॑ । मि॒त्र॒ । धा॒र॒य॒थः॒ । रजां॑सि ।
व॒वृ॒धा॒नौ । अ॒मति॑म् । क्ष॒त्रिय॑स्य । अनु॑ । व्र॒तम् । रक्ष॑माणौ । अ॒जु॒र्यम् ॥

सायणभाष्यम्

हेवरुण हेमित्र युवां त्री त्रीणि रोचना रोचनानि द्युलोकान्धारयथइतिसंबन्धः उतअपिच त्रीन् द्यून् द्योतमानानंतरिक्षलोकान् धार- यथः तथात्रीणिरजांसि भूलोकान् कीदृशौ युवां वावृधाना वर्धमानौ क्षत्रियस्य क्षत्रं बलं तद्वतइन्द्रस्य यद्वा क्षत्रियजातीयस्ययजमानस्य अमतिं रूपनामैतत् रूपंव्रतंकर्मच अजुर्यं अजीर्णंअविरतंवा रक्षमाणौ ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः